Search This Blog

Sunday, 5 September 2021

सुभाषितानि

 

1.      “भाषासु मुख्या मधुरा दिव्या गीर्वाण भारती |

तस्या हि मधुरं काव्यं तस्मादपि सुभाषितम् ||

2.     “काव्येषु नाटकं रम्यं तत्र रम्या शाकुन्तलम् |

तत्रापि च चतुर्थ अंकों तत्र श्लोकं चतुष्टयम् ||”

3.     “जलबिन्दु निपातेन् क्रमशः पूर्यते घटः |

सः हेतु सर्वविद्यानां धर्मस्य च धनस्य च ||”

4.     “यौवनं धनसम्पत्तिः प्रभुत्वमविवेकिताः |

एकैकमप्यनर्थाय किमु यत्र चतुष्टयम् ||”

5.     “निन्दन्तु नीतिनिपुणाः यदि वा स्तुवन्तु, लक्ष्मी: समाविसतु गच्छतु वा यथेष्टम् |

अद्यैव वा मरणमस्तु युगान्तरे वा, न्याय्यात् पथः प्रविचलन्ति पदं न धीराः ||”

6.     “कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |

मा कर्मफलहेतुर्भूर्मा ते संगोस्त्वकर्मणि ||”

7.     “विद्वत्वं च नृपत्वं च नैव तुल्यं कदाचन |

स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ||

8.     “मा निषाद ! प्रतिष्ठां त्वमगमः शाश्वतीः समाः |

यत्क्रौंचमिथुनादेकमवधीः काममोहितम् ||”

9.     “यद्यपि बहु नाधीपे तथापि पठ पुत्र व्याकरणम् |

स्वजनः श्वजनो मा भूत सकलं शकलं सकृच्छकृत् ||”

10. “यस्य षष्ठी चतुर्थी च विहस्य च विहाय च |

यस्याहं च द्वितीया स्याद् द्वितीया स्यामहं कथम् |”

11. “अव्याकरणमधीतं भिन्नद्रोण्या तरंगिणीतरणम् |

भेषजमपथ्यसहितं त्रयमिदमकृतं वरं न कृतन् ||”

12. “मन्त्रोहीनः स्वरतो वर्णतो वा, मिथ्या प्रयुक्तो न तमर्थमाह |

स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ||”

13. “वृत्तं यत्नेन् संरक्षेद् वित्तमायाति याति च |

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ||”

14. “आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते |

नीयते तद् वृथा येन प्रामादः सुमहानहो ||”

15. “हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणं |

श्रोत्रस्य भूषणं शास्त्रं ,भूषणै: किं प्रयोजनं ||”

16. “यस्य नास्ति स्वयं प्रज्ञा, शास्त्रं तस्य करोति किं |

लोचनाभ्यां विहिनस्य, दर्पणः किं करिष्यति ||”

17. “दुर्जनः स्व स्वभावेन् परकार्ये विनश्यति |

नोदर तृप्तिमायाती मूषकः वस्त्रभक्षकः ||”

18. “अनेक शास्त्रं बहुवेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः |

यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ||”

19. “शैले शैले न माणिक्यं मौक्तिम न गजे गजे |

साधवो न हि सर्वत्र चन्दनं न वने वने ||”

20. “षड्दोषा: पुरुषोणेह हातव्याभूतिमिच्छता |

निद्रा तन्द्रा भयं क्रोधं आलस्यं दीर्घसूत्रता ||”

21. “अष्टादश पुराणेषु व्यासस्य वचनद्वयं |

परोपकारः पुण्याय पापाय परपीडनम् ||”

22. “परोपकाराय फलन्ति वृक्षाः, परोपकाराय बहन्ति नद्यः |

परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ||”

23. “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः |

धीर्विद्यासत्यमक्रोधो दशकं धर्म लक्षणम् ||”

24. “अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः |

दानं दमो दया शान्तिः सर्वेषां धर्मसाधनम् ||”

25. “सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यं अप्रियं |

प्रियं च नानृतं ब्रूयात् एषः धर्मः सनातनः ||”

26.  “एक वर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु |

तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मृतम् ||”

27.  “आहार निद्रा भय मैथुनञ्च, सामान्यमेतद् पशुभिर्नराणाम् |

धर्मो हि तेषामधिको विशेषः, धर्मेण हीनाः पशुभिः समानाः ||”

28. “आकाशात् पतितं तोयं यथा गच्छति सागरम् |

सर्व देव नमस्कारः केशवं प्रति गच्छति ||”

29. “बलवानप्यशक्तोऽसौ धनवानपि निर्धनः |

श्रुतवानपि मूर्खोऽसौ यो धर्म विमुखो जनः ||”

30. “सेवितव्यो महावृक्षः फलच्छाया समन्वितः |

यदि देवाद् फलं नास्ति छाया केन् निवार्यते ||”

31. “नास्ति विद्या समं चक्षु नास्ति सत्य समं तपः |

नास्ति राग समं दुःखं नास्ति त्याग समं सुखं ||”

32. “विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च |

व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ||”

33. “ॐ ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत् |

तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ||”

34. “गीतासारमिदं शास्त्रं सर्वशास्त्रसुनिश्चितम् |

यत्र स्थितं ब्रह्मज्ञानं वेदशास्त्रसुनिश्चितम् ||”

35. “तदेजति तन्नैजति तद् दूरे तद्वन्तिके |

तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ||”

36. “तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रिताः |

पुरुषस्य शरीरेऽस्मिन् स बाह्याभ्यन्तरे तथा ||”

37. “अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते |

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी ||”

38. “नमस्ते सदा वत्सले मातृभूमे, त्वया हिन्दुभूमे सुखं वर्धितोऽहम् |

महामंगले पुण्यभूमे त्वदर्थे, पतत्वेष कायो नमस्ते नमस्ते ||”

39. “गायन्ति देवाः किल गीतकानि, धन्यास्तु ते भारतभूमिभागे |

स्वर्गापवर्गास्पदमार्गभूते, भवन्ति भूयः पुरुषाः सुरत्वात् ||”

40.  “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणं |

वर्षं तद् भारतं नाम् भारती यत्र सन्ततिः ||”

41. “सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः|

सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःख भाग्भवेत् ||”

42. अयं निजः परोवेति गणना लघु चेत्तसाम् |

उदार चरितानां तु वसुधैव कुटुम्बकम् ||

43. “सर्व तीर्थमयी माता सर्व देवमयः पिता |

मातरं पितरं तस्मात् सर्व यत्नेन् पूजयेत् ||”

44. “अहिल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा |

पञ्च कन्या स्वरानित्यं महापातकानाशका ||”

45. “गुरु शुश्रूषया विद्या विपुलेन धनेन वा |

अथवा विद्यया विद्या चतुर्थी नैव विद्यते ||”

46. “विद्या ददाति विनयं, विनयादायाति पात्रताम् |

पात्रत्वाद् धनमाप्नोति, धनाद्धर्मः ततः सुखम् ||”

47.  “न चौरहार्यं न च राजहार्यं न भ्रातृ भाज्यं न च भारकारि |

व्यये कृते वर्धते एव नित्यं विद्याधनं सर्वधनप्रधानम् ||”

48. “विद्या विवादाय धनं मदाय, शक्तिः परेषां परपीडनाय |

खलस्य सार्धोविपरीतमेतद्, ज्ञानाय दानाय च रक्षणाय ||”

49. “अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारती |

व्ययतो वृद्धिमायाति क्षयमायाति संचयात् ||”

50. “उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः |

न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ||”

51. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै |

तेजस्विनावधीतमस्तु मा विद्विषावहै ||”

52. “देवो रुष्टे गुरुस्त्राता गुरो रुष्टे न कश्चन् |

गुरुस्त्राता, गुरुस्त्राता, गुरुस्त्राता न संशयः ||”

53. “काक चेष्टा बको ध्यानं श्वान निद्रा तथैव च |

अल्पाहारी गृह त्यागी विद्यार्थी पञ्च लक्षणम् ||”

54. “काव्य शास्त्र विनोदेन कालो गच्छति धीमतां |

व्यसनेन च मूर्खाणां निद्रया कहलेन वा ||”

55. “क्षणशः कणशश्चैव विद्यामर्थं च चिन्तयेत् |

क्षण त्यागे कुतो विद्या कण त्यागे कुतो धनम् ||”

56. “प्रासादस्य विनिर्माणे मूलभित्तिरपेक्षते |

तथैव जीवनस्यादौ ब्रह्मचर्यमपेक्षते ||”

57. “अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |

अधनस्य कुतो मित्रममित्रस्य कुतो सुखम् ||”

 

            *संकलनकर्त्ता: रंजय कुमार पटेल (शोधार्थी) 

शैक्षिक अध्ययन विभाग, शिक्षा संकाय,

 महात्मा गाँधी केन्द्रीय विश्वविद्यालय, मोतिहारी, पूर्वी चम्पारण, बिहार- 845401. 


 

 

 

 

 

 

No comments:

Post a Comment